||Sundarakanda ||

|| Sarga 9||( Only Slokas in Devanagari) )

 

Sanskrit Sloka text in Devanagari, Gujarati, Kannada, Telugu , and English

||om tat sat||

सुन्दरकाण्ड्.
अथ नवमस्सर्गः

तस्यालय वरिष्टस्य मध्ये विपुलमायतम्।
ददर्श भवनं श्रेष्टं हनुमान्मारुतात्मजः॥1||

स॥ मारुतात्मजः हनुमान् तस्य आलयवरिष्ठस्य मध्ये विपुलं आयतं श्रेष्टं भवनं ददर्श॥

Hanuman, the son of wind god, saw in the middle of the main building a spacious mansion, best among all the mansions.

अर्थयोजन विस्तीर्णम् आयतं योजनं हि तत्।
भवनं राक्षसेन्द्रस्य बहुप्रासादसंकुलम्॥2||

स॥ राक्षसेंद्रस्य भवनं तत् बहुप्राशाद संकुलं अर्थ योजन विस्तीर्णम्
Hanuman who can subdue all enemies in search of the wide eyed Sita went all around in search of Sita.
.
उत्तमम् राक्षसावासं हनुमान् अवलोकयन्।
अससादाथ लक्ष्मीवान् राक्षसेन्द्रनिवेशनम्॥4||

स॥ अथ लक्ष्मीवान् हनुमान् उत्तमं राक्षसावासं अवलोकयन् राक्षसेन्द्र निवेशनं अससाद॥

Then Hanuman endowed with riches of strength reached the palace of the King of Rakshasas.

चतुर्विषाणैर्द्विरदैः त्रिविषाणैः तथैव च।
परिक्षिप्तमसंबाधं रक्ष्यमाणमुदायुधैः ||5||

स॥ ( तत् भवनं) चतुर्विषाणैः तथैव त्रिविषाणैः द्विरदैः गजैः परिक्षिप्तं असंबाधं उदायुधैः रक्ष्यमाणं (अस्ति)॥

That palace was guarded by armed Rakshasas and elephants with four tusks , three tusks and two tusks.

राक्षसीभिश्च पत्नीभी रावणस्य निवेशनम्।
अहृताभिश्च विक्रम्य राजकन्याभिरावृतम्॥6||

स॥ (तत्) रावणस्य निवेशनं पत्नीभिः विक्रम्य आहृताभिः राजकन्याश्च राक्षसीभिश्च आवृतम्॥

That palace of Ravana was full with his wives, princesses brought by him after winning them over (in a battle) and other Rakshasa women.

तन्नक्रमकराकीर्णं तिमिङ्गिलझषाकुलम्।
वायुवेग समाधूतं पन्नगैरिव सागरम्॥7||

स॥ (तत् रावणस्य निवेशनम्) नक्रमकराकीर्णं तिमिंगिळझुषाकुलम् वायुवेग समाधूतं पन्नगैः सागरं इव (अस्ति)॥

That Ravana's palace ( with Rakshasa women surrounding his wives and other princesses) looked like an ocean full of crocodiles, sharks as well as whales and shaken by the wind .

याहि वैश्रवणे लक्ष्मीर्या‍चन्द्रे हरिवाहने।
सारावणगृहे सर्वा नित्यमेवानपायिनी॥8||

स॥ या लक्ष्मी वैश्रवणे या हरिवाहने इन्द्रे च (अस्ति) सा सर्वा रावणगृहे नित्यमेव अनपायिनी (अस्ति)॥

All of the wealth was possessed by Vaisravana ( son of Vishrava, Kubera) and Indra who rides the green horse was there in the house of Ravana.

या च राज्ञः कुबेरस्य यमस्य वरुणस्य च।
तादृशी तद्विशिष्टा वा ऋद्धी रक्षोगृहे ष्विह॥9||

राज्ञः कुबेरस्य या वरुणस्य या यमस्य ऋद्धिः तादृशी तद्विशिष्ठा वा (ऋद्धिः) इह रक्षो गृहे (अस्ति)॥

Such wealth or more exquisite wealth as possessed by Kubera, Varuna or Yama was available in the house of the Rakshasa king.

तस्य हर्म्यस्य मध्यस्थं वेश्म चान्यत्सुनिर्मितम्।
बहुनिर्यूह संकीर्णं ददर्श पवनात्मजः॥10||

स॥ पवनात्मजः तस्य हर्म्यस्य मध्यस्थं सुनिर्मितं बहुनिर्यूह संकीर्णं अन्यत् वेश्म ददर्श॥

The son of wind god also saw in the middle of those well-built complex of mansions another mansion.

ब्रह्मणोऽर्थे कृतं दिव्यं दिवि यद्विश्वकर्मणा।
विमानं पुष्पकं नाम सर्वरत्नविभूषितम्॥11||

स॥ पुष्पकं नाम विमानं सर्व रत्न विभूषितं दिव्यं यत् ब्रह्मणोर्थे विश्वकर्मणा कृतं (तत् ददर्श)

There was a wonderful aerial chariot by name Pushpaka built for Brahma by Vishwakarma.

परेण तपसा लेभे यत्कुबेरः पितामहात्।
कुबेरमोजसा जित्वा लेभे तद्राक्षसेश्वरः॥12||

स॥ ( तत् विमानं) कुबेरः पितामहात् परेण तपसा लेभे। कुबेरं ओजसा जित्वा तत् राक्षसेश्वरः लेभे ||

That (aerial chariot) was obtained by Kubera from the Grandsire ( Brahma) by supreme penance. Defeating Kubera with his prowess Ravana acquired the same.

ईहामृग समायुक्तैः कार्तस्वरहिरण्मयैः।
सुकृतैराचितं स्तम्भैः प्रदीप्तमिव च श्रिया॥13||
मेरुमन्दरसङ्काशै रुल्लिखद्भि रिवाम्बरम्।
कूटागारै श्शुभाकारैः सर्वतः समलंकृतम्॥14||

स॥ ईहामृगसमायुक्तैः कार्तस्वरहिरण्मयैः सुकृतैः स्तम्भैः श्रिया प्रदीप्तं इव मेरुमन्दर सङ्काशैः उल्लिखद्भिरिव अम्बरं सर्वतः शुभाकारैः कूटागारैः समलंकृतं ( विमानं ददर्श)

Blazing with images of wolves on finely built pillars made of Hiranmaya and Kartasvara (two types of gold), touching the sky and with multitude of pleasure houses, that auspicious aerial car was resembling the Meru and Mandara mountains.

ज्वलनार्क प्रतीकाशं सुकृतम् विश्वकर्मणा।
हेमसोपान संयुक्तं चारुप्रवर वेदिकम्॥15||

स॥ विश्वकर्मणा सुकृतं ज्वलनार्कप्रतीकाशं हेमसोपान संयुक्तं चारुप्रवर वेदिकम् (तं भवनम् ददर्श)॥

(It was )glowing like fire and the Sun , it was well built by Vishwakarma with golden staircases and many platforms.

जालावातायनैर्युक्तं काञ्चनैः स्पाटिकैरपि |
इन्द्रनील महानील मणि प्रवर वेदिकम्॥16||

स॥(तत् विमानं) कांचनैः स्फाटिकैरपि जालवातयनैः युक्तं इन्द्र नील महानील मणि प्रवर वेदिकम् (ददर्श)॥

With lattice windows made of gold and crystals, the platforms were embedded with Indraneela and Mahaneela sapphires.

विद्रुमेण विचित्रेण मणिभिश्चमहाघनैः।
निस्तुलाभिश्च मुक्ताभिः तलेनाभि विराजितम्॥17||

स॥विचित्रेण विद्रुमेण महाघनैः मणिभिश्चनिस्तुलाभिः मुक्ताभिः तलेन अभिविराजितम् तं विमानं ददर्श॥

It is shining bright with colorful corals and very precious gems fixed in the floor.

चन्दनेन च रक्तेन तपनीयनिभेन च।
सुपुण्यगन्धिनायुक्तं आदित्य तरुणोपमम्॥18||

स॥ रक्तेन तपनीयनिभेन च सुपुण्यगन्धिना चन्दनेन युक्तं आदित्य तरुणोपमम् (विमानं ददर्श)॥

It was red and bright like pure and polished gold comparable to rising Sun.

कूटागारैर्वराकारैः विविधैः समलंकृतम्।
विमानं पुष्पकं दिव्यं आरुरोह महाकपिः॥19||

स॥ विविधैः वराकरैः कूटागारैः समलंकृतं दिव्यं पुष्पकं विमानं महाकपिः आरुरोह॥

Hanuman ascended that wonderful Pushpaka well decked with many corridors.

तत्रस्थ स्स तदा गन्धं पानभक्ष्यान्नसंभवम्।
दिव्यं सम्मूर्छितं जिघ्र द्रूपवंत मिवानलम्॥20||

स॥ सः तदा तत्रस्थः दिव्यं गन्धं जिघ्रत् | तत् पानभक्ष्यान्नसंभवं गंधं सम्मूर्छितं रूपवंतं अनिलमिव अस्ति ||

Standing there Hanuman smelt divine fragrance. That fragrance rising from food and drinks was intoxicating and spread as if to give shape to the wind

स गन्धस्त्वं महासत्त्वं बन्धुर्बन्धु मिवोत्तमम्।
इत एही त्युवाचेन तत्र यत्र स रावणः॥21||

स॥ स गंधः उत्तमं बन्धुं बन्धुरिव इतः एहि इति उवाच इव यत्र सरावणः तत्र तं महासत्त्वं

That fragrance was as though inviting the mighty Hanuman like a relative inviting kith and kin saying "come here" and leading him to Ravana's chambers

तत स्थां प्रस्थितः शालाम् ददर्श महतीं शुभाम्।
रावणस्य मनः कान्तां कान्तामिव वरस्त्रियम्॥22||

स॥ ततः प्रस्थितः महतीं शुभां तत् वरस्त्रिय कान्तामिव मनः कान्तां रावणस्य शालां हनुमान् ददर्श ||

Then he moved towards the great hall of Ravana which is dear to his heart like his chief queen.

मणिसोपानविकृतां हेमजालविभूषिताम्।
स्पाटिकैरावृततलां दन्तान्ततरितरूपिकाम्॥23||

स॥ मणिसोपानविकृतां हेमजाल विभूषिताम् स्फाटिकैरावृततलां दन्तान्ततरित रूपिकां (शालां ददर्श)॥

The stairs were inlaid with special gems latticed with gold, floor was covered with ivory inlaid with silver.

मुक्ताभिश्च प्रवाळैश्च रूप्यचामीकरैरपि।
विभूषितां मणिस्तंभैः सुबहुस्तम्भभूषिताम्॥24||

स॥ मुक्ताभिश्च प्रवाळैश्च रूप्यचामीकरैरपि मणिस्तंभैः विभूषितां सुबहु स्तम्भैः भूषितं (शालां ददर्श)

The ornamented golden and silver pillars were in laid with pearls and corals. The hall was decorated with many such pillars.

नम्रैरृजुभिरत्युच्चैः समंतात्सुविभूषितैः |
स्तंभैः पक्षैरिवात्युच्चैर्दिवं संप्रस्थितामिव ||25||

स॥ (तत् शालायां) नम्रैः ऋजुभिः अत्युच्चैः समन्तात् सुविभूषितैः स्तंभैः अत्युच्चैः पक्षैः दिवं सम्प्रस्थितामिव अस्ति ||

Well decorated with columns which are touching the skies , some of which are bent, some of which are straight , it looked like it started to reach for heaven.

महत्या कुथयास्तीर्णां पृथिवी लक्षणाङ्कया।
पृथिवीमिव विस्तीर्णं सराष्ट्र गृहमालिनीम्॥26||

स॥ तत् शाला पृथिवी लक्षणाङ्कया कुथया आस्तीर्णं सराष्ट्र गृहमालिनीं पृथिवीमिव विस्तीर्णम् (अस्ति)

With several murals of earth which were having garland of palaces drawn on it, the expansive carpet looked like a piece of earth itself.

नादितां मत्तविहगैः दिव्यगन्धादिवासिताम्।
परार्थ्यास्तरणो पेतां रक्षोधिपनिषेविताम्॥27||

स॥ मत्तविहगैः नादितां दिव्यगन्धाधिवासिताम् परार्ध्यास्तरणोपेतां रक्षोधिपेन निषेवितां ||

With birds in heat making resounding noise, with divine fragrances and with exquisite tapestries the mansion was inhabited by the king of Rakshasas.

धूम्रां अगरुधूपेन विमलां हंसपाण्डुराम्।
चित्रां पुष्पोपहारेण कल्माषी मिव सुप्रभाम्॥28||

स॥ अगरुधूपेन धूम्रां विमलां हंसपाण्डुराम् इव अस्ति | पुष्पोपहारेण चित्राम् सुप्रभाम् कल्मषां कामधेनुं इव (अस्ति) ||

Looking spotless white like a swan , it was smoky with smoke of Agaru. Because of the offering of flowers it was radiant like wish fulfilling Kamdhenu.

मनसंह्लाद जननीं वर्णस्यापि प्रसादिनीम्।
तां शोकनाशिनीं दिव्यां श्रियः संजननीमिव॥29||

स॥ मनः संह्लाद जननीं वर्णस्यापि प्रसादनीं शोकनाशिनीं श्रियं संजननीं इव दिव्यां (ताम् ददर्श)||

The mansion was generating delight to the heart , pleasing with color and complexion. Demolishing sorrow as it were , it looked like the source of prosperity.

इन्द्रियाणीन्द्रियार्थैस्तु पञ्चपञ्चभिरुत्तमैः।
तर्पयामास मातेव तदा रावणपालिता॥30||

स॥ रावणपालिता (शाला) तदा माता इव पञ्चभिः इन्द्रियार्थैः पञ्चइन्द्रियाणि तर्पयामास ||

The chamber of Ravana, like a mother, gratified all five senses with five objects of senses.

स्वर्गोऽयं देवलोकोऽयं इन्द्रस्येयं पुरी भवेत्।
सिद्धिर्वेयं परा हि स्यात् इत्यमन्यत मारुतिः॥31||

अयं स्वर्गः अयं देवलोकः अयं इन्द्रस्यपुरी भवेत् | इयं परासिद्धिः स्यात् मारुतिः अमन्यत ||

This is heaven. This is the world of Gods. This is the city of Indra. Hanuman thought of this as the supreme achievement.

प्रध्यायत इवापस्यत् प्रदीपां स्तत्र काञ्चनान्।
धूर्तानिव महाधूर्तैः देवनेन पराजितान्॥32||

स॥ काञ्चनान् प्रदीपान् देवनेन महाधूर्तैः पराजितं धूर्तानिव अस्ति। प्रध्यायत धूर्तां इव अस्ति॥

The golden lamps looked like great gamblers defeated in a game of dice. The gamblers were as though they were in a deep thought.

दीप्तानां च प्रकाशेन तेजसा रावणस्य च।
अर्चिर्भिः भूषणानां च प्रदीप्तेत्यभ्य मन्यत॥33||

स॥ दीप्तानां प्रकाशेन रावणस्य तेजसा च भूषणानां अर्चिभिः प्रदीप्ता इति अमन्यत॥

Hanuman thought that the brightness of the lamps and the brilliance of Ravana , the brilliant glow of his ornaments set the place ablaze with brightness.

ततोऽपश्यत्कुथाऽऽसीनां नानावर्णाम्बरस्रजम्।
सहस्रं वरनारीणां नानावेष विभूषितम् ||34||

स॥ तत्ः कुथासीनाम् नानावर्णांबरस्रजम् नानावेषभूषितम् वरनारीणाम् सहस्रं अपश्यत् ||

Then he saw best of women wearing many varieties of clothes and garlands of different colors seated on the carpets .

परिवृत्तेऽर्थरात्रे तु पाननिद्रावशं गतम्।
क्रीडित्वोपरतंरात्रौ सुष्वाप बलवत्तदा॥35||

स॥रात्रौ क्रीडित्वा उपरतं पाननिद्रावशं गतं तदा अर्थरात्रे परिवृत्ते बलवत् सुष्वाप॥

Wearied having sported at night succumbing to drinks and sleep thereafter they fell asleep, when the mid night rolled away.

तत्प्रसुप्तं विरुरुचे निश्शब्दान्तरभूषणम्।
निश्शब्दहंस भ्रमरं यथा पद्मवनं महत्॥36||

स॥ निःशब्दांतर भूषणम् प्रसुप्तम् निःशब्धांतर सभ्रमरं महत् पद्मवनं यथा विरुरुचे॥

With sounds of their ornaments stilled and hence sleeping like the silenced swans and bees , the mansion looked beautiful like a forest of lotuses.

तासां संवृतदन्तानि मीलिताक्षाणि मारुतिः।
अपश्यत् पद्मगन्धीनि वदनानि सुयोषिताम्॥37||

स॥ मारुतिः तासां सुयोषिताम् संवृतदन्तानि मीलिताक्षाणि पद्मसुगन्धिनि वदनानि अपस्यत् ||

Hanuman saw those well-bred young women with closed eyes and concealed teeth giving out smell of lotuses.

प्रबुद्धानिव पद्मानि तासां भूत्वाक्षपाक्षये।
पुनस्संवृतपत्त्राणि रात्राविव बभुस्तदा॥38||

स॥ तासां क्षपाक्षये प्रबुद्धानि पद्मानिव भूत्वा पुनः रात्रौ संवृतपत्राणिव तदा बभुः॥

The women looked like the lotuses with closed petals after having been like the lotuses in bloom from early mooning.

इमानि मुखपद्मानि नियतं मत्तषट्पदाः।
अंबुजानीव पुल्लानि प्रार्थयंति पुनः पुनः॥39||

स॥ मत्तषट्पदाः इमानि मुखपद्मानि पुल्लानि अंबुजानिव पुनः पुनः नियतम् प्रार्थयन्ति॥

The intoxicated bees would again and again desire to enjoy the beautiful blooming lotus like faces.

इतिचामन्यत श्रीमान् उपपत्त्या महाकपिः॥
मेने हि गुणतस्तानि समानि सलिलोद्भवैः॥40||

स॥ श्रीमान् महाकपिः तानि गुणतः उपपत्त्या सलिलोद्भवैः समानि इति अमन्यत | मेने हि ||

Having ascertained the qualities, the great Vanara felt that it is correct to compare them with lotuses.

सा तस्य शुशुभेशाला ताभिः स्त्रीभि र्विराजिता।
शारदीव प्रसन्ना द्यौः ताराभिरभिशोभिता॥41||

तस्य सा शाला ताभिः स्त्रीभिः विराजिता | ताराभिः अभिशोभिता प्रसन्ना शारदी द्यौ इव शुशुभे॥

The mansion of the (Rakshasa king) shone with women . It shone like the clear autumnal sky lit by shining stars

स च ताभिः परिवृतः शुशुभे राक्षसाधिपः।
यथा ह्युडु पतिः श्रीमांस्ताराभिरभिसंवृतः॥42||

स॥ ताभिः परिवृत्तः सः राक्षसाधिपः ताराभिः अभिसंवृत्तः श्रीमान् ह्युडुपतिः इव शुशुभे॥

Thus surrounded by them the king of Rakshasas shone like the Moon surrounded by the stars.

याश्च्यवन्तेऽम्बरात्ताराः पुण्यशेष समावृताः।
इमा स्ता स्संगताः कृत्स्ना इति मेने हरिस्तदा॥43||

स॥ याः ताराः पुण्यशेष समवृत्ताः अम्बरात् च्यवन्ते ताः कृत्स्नाः इमाः संगताः इति तदा हरिः मेने ||

The Vanara thought that the women looked like the stars who have fallen to earth after having exhausted their merits

ताराणामिव सुव्यक्तं महतीनां शुभार्चिषाम्।
प्रभावर्ण प्रसादाश्च विरेजुस्तत्र योषिताम्॥44||

स॥ तत्र योषिताम् प्रभावर्ण प्रसादः च शुभार्चिषाम् महतीनाम् ताराणामिव सुव्यक्तम् विरेजुः॥

The luster and grace of those women looked like the that of brilliant stars releasing auspicious glow.

व्यावृत्तगुरु पीनस्रक्प्रकीर्ण वरभूषणाः।
पानव्यायमकालेषु निद्रापहृतचेतसः॥45||

स॥ ( सा) पानाव्यायम कालेषु व्यावृत्त गुरु पीन स्रक्प्रकीर्ण वर भूषणाः निद्र अपहृत चेतसः सन्ति॥

With jewels displaced and garlands scattered after drinking and sexual exercises, they had minds dazed in slumber.

व्यावृत्त तिलकाः काश्चित् काश्चिदुद्भ्रान्तनूपुराः।
पार्श्वे गळितहाराश्च काश्चित् परमयोषिताः॥46||

स॥ कश्चित् परमयोषितः व्यावृत्त तिलकाः कश्चित् उद्भ्रान्तनूपुराः कश्चित् पार्श्वे गळितहाराः च

A few had their verminal marks smudged, a few had anklets let loose and a few had necklaces one side.

मुक्ताहाराऽवृता श्चान्याः काश्चित् विस्रस्तवाससः।
व्याविद्दरशनादामाः किशोर्य इव वाहिताः॥47||

स॥ अन्याः मुक्ताहारावृताः काश्चित् विस्तत्रवाससः व्याविद्धरशनादामाः वाहिताः किशोर्याः इव आसीत्॥

Others had broken pearl strings on their girdle, some had their clothes slipped off, and some had waist belts snapped and fallen to the ground like young mares released to rest.

सुकुण्डलधराश्चान्या विच्छिन्नमृदितस्रजः।
गजेन्द्रमृदिताः पुल्ला लता इव महानने॥48||

स॥ सुकुण्डलधराः अन्याः विच्छिन्नमृदितस्रजाः महावने गजेन्द्रमृदिताः फ्हुल्लाः लता व आसीत् ||

With broken ear tops , broken and crushed flower garlands some looked like blooming creepers in dense forest crushed by mighty elephants.

चन्द्रांशुकिरणाभाश्च हाराः कासांचिदुत्कटाः।
हंसा इव बभुः सुप्ताः स्तनमध्येषु योषिताम्॥49||

कासांचित् योषितां स्तनमध्येषु उत्कटाः चंद्रांशुकिरणाभाः च हाराः सुप्ताः हंसा इव बभुः॥

Some of the women with shining pearl chains, which were shining like rays of moon, resting between their breast. They looked like swans in sleep.

अपरासां च वैढूर्याः कादम्बा इव पक्षिणः।
हेमसूत्राणि चान्यासां चक्रवाका इवाभवन्॥50||

स॥ परासांश्च वैडूर्याः पक्षिणः कादम्बाः इव अन्यासाम् हेमसूत्राणि पक्षिणः चक्रवाका इव॥

The Vaidhurya worn by women looked like Kadamba birds , the golden chains on others looked like Chakravaka birds.

हंसकारण्डवाकीर्णाः चक्रवाकोपशोभिताः।
आपगा इव ता रेजुर्जघनैः पुलिनैरिव॥51||

स॥ जघनैः पुलिनैः इव ताः हंसकारण्डवाकीणाः चक्रवाकोपशोभिताः आपगा इव रेजुः॥

With the hips like river banks, they shone like rivers with Hamsas, Karandas and Chakravaka birds.

किङ्किणीजाल संकोशास्ता हैमविपुलाम्बुजाः।
भावग्राहा यशस्तीराः सुप्तानद्य इवाऽऽबभुः॥52||

स॥ सुप्ताः किंकिणीज्वालसंकोशाः हैमविपुलाम्बुजाः भावग्राहाः यशस्तीराः नद्या इव आबभुः॥

With tiny bells tied around the waist looking like buds, bold golden ornaments looking like lotuses, their gestures of love looking like passion of crocodiles, their radiant beauty looking like silver banks , the sleeping ones appeared like rivers.

मृदुष्वङ्गेषु कासांचित् कुचाग्रेषु च संस्थिताः।
बभूवुर्भूषणा नीव शुभा भूषणराजयः॥53||

स॥ कासांचित् मृदुषु अंगेषु कुचाग्रेषु च संस्थिताः शुभाः भूषणराजयः भूषणानीव बभूवुः ||

Some women with the tender limbs and breast and nipples imprinted with marks of ornaments, themselves looked like ornaments.

अंशुकान्ताश्च कासांचिन् मुखमारुतकंपिताः।
उपर्युपरिवक्त्राणां व्याधूयन्ते पुनः पुनः॥54||

स॥ कासांचित् मुखमारुतकंपिताः अंशुकांताश्च वक्त्राणां उपरि उपरि पुनः पुनः व्याधूयन्ते॥

Some women with breath released by their mouths shaking the fringes of garments, made them flutter again and again.

ताः पताकाइवोद्धूताः पत्नीनां रुचिरप्रभाः।
नानावर्ण सुवर्णानां वक्त्रमूलेषु रेजिरे॥55||

स॥ नानावर्णसुवर्णानां पत्नीनाम् वक्रमूलेषु ताः रुचिरप्रभाः उध्दूताः पताकाः इव रेजिरे॥

The fringes of their garments with different hues shone beautifully close to their faces like splendid flags,

ववल्गुश्चात्र कासांचित् कुण्डलानि शुभार्चिषाम्।
मुखमारुत संसर्गान् मन्दं मन्दं सुयोषिताम्॥56||

स॥ शुभार्चिषाम् कासांश्चित् योषितां कुण्डलानि अत्र मुख मारुत संसर्गात् मन्दं मन्दं ववल्गुश्च॥

The ear tops, swinging under the breath of some of the women endowed with auspicious charms, were softly generating a gentle sound.

शर्कराऽसन गन्धैश्च प्रकृत्या सुरभिः सुखः।
तासां वदननिश्व्यासः सिषेवे रावणं तदा॥57||

स॥तदा प्रकृत्या शर्करासवगन्धैश्च सुरभिः सुखः तासाम् वदननिःश्वासः रावणं शिषेवे॥

Then the natural sweet smell of wine from their mouths and the natural fragrance of their breath were serving Ravana in their own way.

रावणाननशङ्काश्च काश्चित् रावणयोषितः।
मुखानि स्म सपत्नीनां उपाजिघ्रन् पुनः पुनः॥58||

स॥ कश्चित् रावण योषिताः रावणाननशंकाश्च पुनः पुनः सपत्नीनाम् मुखानि उपाजिघ्रन्॥

Some of the wives of Ravana kissed their co-wives assuming it to be Ravana's face.

अत्यर्थं सक्तमनसो रावणे ता वरस्त्रियः।
अस्वतंत्राः सपत्नीनां प्रियमेवाऽऽचरं स्तदा॥59||

स॥ रावणे अत्यर्थं सक्त मनसः ता वरस्त्रियः अस्वतंत्राः तदा सपत्नीनाम् प्रियमेव आचरन् ||

Very much devoted to Ravana and not being free some of his wives responded pleasingly.

बाहून् उपविधायान्याः पारिहार्यविभूषितान्।
अंशुकानि च रम्याणि प्रमदास्तत्र शिश्यिरे॥60||

अन्याः प्रमदाः परिहार्य विभूषितान् बाहून् रम्याणि अंशुकानि उपनिधाय शिश्यिरे॥

Other women laying aside their adornments used their arms as pillows others used their garment as pillows.

अन्यावक्षसि चान्यस्याः तस्याः काश्चित् पुनर्भुजम्।
अपरात्वंक मन्यस्याः तस्याश्चाप्यपराभुजौ॥61||

स॥ अन्याः अन्यस्याः वक्षसि काचित् पुनः तस्याः भुजं अपरा अन्यस्याः अंकं अपरा तस्याः भुजौ शिश्यिरे॥

Some women slept on the chest of others, another ( slept ) on the shoulders of yet another , and another ( slept) in the lap of the other.

ऊरुपार्श्वकटी पृष्ठं अन्योन्यस्य समाश्रिताः।
परस्परनिविष्टाङ्ग्यो मदस्नेहवशानुगाः॥62||

स॥ मदस्नेहवशानुगाः अन्योन्यस्य उरुपार्श्वकटीपृष्ठं समाश्रिताः परमनिविष्टाङ्ग्यः शिश्यिरे॥

Given to intoxication and love the women slept touching one other's thighs, sides, hips , back and lap of another with their limbs intertwined.

अन्योन्यभुजसूत्रेण स्त्रीमालाग्रथिता हि सा।
मालेव ग्रथिता सूत्रे शुशुभे मत्तषट्पदा॥63||

स॥ अन्योन्य भुजसूत्रेण ग्रथिता सा स्त्रीमाला सूत्रे ग्रथिता मत्तषट्पदाः मालेव शिश्यिरे ||

Strung together with another, they looked like a garland of flowers. The women shone like tipsy bees on a garland of flowers .

लतानां माधवे मासि पुल्लनां वायुसेवनात् |
अन्योन्यमालाग्रथितं संसक्त कुसुमोच्चयम्॥64||
व्यतिवेष्टित सुस्कन्धं अन्योन्यभ्रमराकुलम्।
आसीद्वन मिवोद्धूतम् स्त्रीवनं रावणस्य तत्॥65||

स॥ अन्योन्यमालाग्रथितम् संसक्त कुसुमोच्चयम् व्यतिवेष्टित सुस्कंधं अन्योन्य भ्रमराकुलम् रावणस्य तत् स्त्रीवनं माघवे मासि वायुसेवनात् फुल्लानाम् लतानाम् अन्योन्यमालाग्रथितम् अन्योन्यभमराकुलम् उद्धतम् वनम् इव आसीत् ||

Linked to each other like a chain like flowers on a string, tangled together with strong joints like bees swarming, that garden of women was like a garden of creepers with swarming bees and the blooms being blown by the wind with the creepers linked to each other.

उचितेष्वपि सुव्यक्तं न तासां योषितां तदा।
विवेकः शक्य आधातुं भूषणाङ्गाम्बरस्रजाम्॥66||

स॥तदा तासां योषिताम् भूषणाङ्गाम्बर स्रजाम् विवेकः संयुक्तं आधातुम् उचितेष्वपि न शक्यः॥

It is not possible to distinguish between the ornaments , garments, limbs and garlands in order to place them in the right spots.

रावणेसुखसंविष्टे ताः स्त्रियो विविध प्रभाः।
ज्वलंतः काञ्चना दीपाः प्रैक्षंताऽनिमिषा इव॥67||

स॥ रावणे सुखसंविष्टे विविधप्रभाः ताः स्त्रियः ज्वलंतः कांचनाः दीपाः इव अनिमिषाः प्रेक्षंत इव आसीत्॥

When Ravana was sleeping happily, the different lights burning on the lamp posts seemed to be gazing at the women without winking

राजर्षिपितृदैत्यानां गन्धर्वाणां च योषितः।
राक्षसानां च याः कन्याः तस्य कामवशं गताः॥68||

स॥राजर्षि पित्रुदैत्यानाम् गंधर्वाणां योषितः राक्षसानाम् याः कन्याः तस्य कामवशानुगताः ||

The women who hailed from families of royal sages , ancestral deities, Daityas and Rakshasis gave themselves to him, being infatuated with him.

युद्धकामेन ता स्सर्वा रावणेन हृता स्त्रियः।
समदा मदनेनैव मोहिताः काश्चिदागताः॥69||

स॥ सर्वाः ताः स्त्रियः युद्धकामेन रावणेन हृताः समदाः काश्चित् मदनेन मोहिताः एव आगताः॥

All of those women were won over in a battle , some came on their own blinded by lust

न तत्र काचित् प्रमदा पसह्य
वीर्योपपन्नेन गुणेन लब्धा।
न चान्यकामापि न चान्यपूर्वा
विना वरार्हं जनकात्मजां ताम्॥70||

स॥ वरार्हं तां जनकात्मजां विना तत्र काश्चित् प्रमदा वीर्योपपन्नेन प्रसह्य न लब्धा गुणेन लब्धा | अन्यकामापि च न | अन्यपूर्वाच न ||

Except for the revered daughter of Janaka, none of the women were obtained by his valor forcibly. They were not in love with another , nor were they married earlier.

न चाकुलीना न च हीनरूपा
नादक्षिणा नानुपचारयुक्ता।
भार्याभवत्तस्य न हीनसत्त्वा
न चापि कान्तस्य न कामनीया॥71||

स॥ तस्य भार्या अकुलीना न च अभवत् | हीनरूपाच न | अदक्षिणा च न | अनुपचारयुक्ता च न || हीनसत्त्वा च न | कान्तस्य न कामनीया॥

None among them was not born of a noble family. None lacked beauty. None was unkind. None was lacking in courtesy. None not lovable for the lover.

बभूव बुद्धिस्तु हरीश्वरस्य
यदीदृशी राघव धर्मपत्नी।
इमा यथा राक्षसराज भार्याः
सुजातमस्येति हि साधुबुद्धेः॥72||

स॥ इमाः राक्षसराजभार्याः यथा राघवपत्नी ईदृशी अस्य सुजाताम् इति साधुबुद्धेः हरीश्वरस्य बुद्धिस्तु बभूव ||

Hanuman thought , if the wife of Raghava born of good family could stay (with her husband) like the wives of this Rakshasa king , it would be fortunate.

पुनश्च सोऽचिन्तय दार्तरूपो
ध्रुवं विशिष्टा गुणतो हि सीता।
अधाय मस्यां कृतवान् महात्मा
लङ्केश्वरः कष्ट मनार्यकर्म॥73||

स॥सः दार्तरूपः पुनश्च अचिन्तयत् सीता ध्रुवं गुणतः विशिष्ठा अथ महात्मा अयं लंकेश्वरः अस्यां अनार्यं कृतवान् कष्टम्॥

Then he felt sad , thinking again, "Sita is surely by her virtues superior (to all) . The king of Lanka has indeed committed an ignoble act".

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुन्दरकाण्डे नवमस्सर्गः॥

Thus the ninth Sarga of Sundarakanda in Ramayan , the first ever poem written by Valmiki ends||

|| ओम् तत् सत्॥